अगस्त 14, 2007

आतिसुन्दरः चित्रश्लोकः

Posted in Sanskrit at 1:28 पूर्वाह्न द्वारा koham

संस्कृतभाषा नाम कौतुकम् (The Wonder that is Sanskrit) इत्यस्मिन् पुस्तके मया दृष्टोऽयं श्लोकः ।

सा सेना गमनारम्भे रसेनासीदनारता ।
तारनादजना मत्तधीरनागमनामया ॥

अर्थः – ” That army was very efficient and as it moved, the warrior heroes were very alert and performed their duties with great concentration. The soldiers in that army made a loud sound. The army was adorned with intoxicated and restive elephants. No one was there with any thought of pain. “

श्लोकेऽस्मिन् कः विशेषः ? चित्रं पश्यन्तु । श्लोके वर्णानां विन्यासः डमरिणं द्योतयति । रेखा ABC मध्ये यानि अक्षराणि सन्ति ते प्रथमपादं रचयन्ति । तथा GHIJ द्वितीयं पादम् । तृतीयं पादम् KLMN चतुर्थं पादम् DEF | अतिसुन्दरं किल ! अदृष्टपूर्वं मया ईदृशश्लोकाः । पुस्तके ईदृशकौतुकानि बहूनि सन्ति । एतानि संस्कृतभाषां पठितुं अध्येतुं च न प्रेरयति किम् ?

चित्रश्लोकः

Advertisements

अगस्त 11, 2007

जनानुरागः प्रभवा हि सम्पदः

Posted in Sanskrit at 10:14 अपराह्न द्वारा koham

इदानीम् अहं तु internship कर्तुम् आगतवान् California राज्यम् । यद्यपि अहं मासत्रयं यावत् एव अत्र आगतवान् मम मित्राणि तु अहं सुदीर्घकालं तान् न मिलामि इव मां सत्कृत्य प्रेषितवन्तः । प्रस्थानात् पूर्वं त्रीणि दिनानि यावत् अहं स्वगृहे भोजनमेव न कृतवान् । किमपि मित्रं तस्य उत तस्याः गृहं भोजनार्थं आह्वयति स्म । इदानीमपि मह्यं पत्राणि प्रेषयन्ति । दूरवाण्या सम्भाषणं कुर्वन्ति च । तत्रत्यवार्ताः सर्वाः श्रावयन्ति । कः किं कृतवानिति । मम महान् सन्तोषः ईदृशमित्राणि सन्ति मे इति । सर्वाणि मित्राणि सर्वदा स्मराम्यहम् । माम् इदृशप्रीतिं प्रेम च दर्शितवद्भ्यः सर्वेभ्यः मित्रेभ्यः धन्यवादाः । मम मित्राणि एव मम महती सम्पत्तिः ।

तथा हि संस्कृतभाषाप्रचारार्थं यदा कदापि अन्यप्रदेशगमनं भवति । तदापि जनाः प्रेम्णा स्वगृहे वासं कल्पयन्ति । एकस्थानात् अन्यत् स्थानं प्रति नयन्ति स्वीयवाहने । एतं जनानुरागं सम्पादयितुं अवकाशं कल्पितं संस्कृतभाषया । तां वाग्देवीम् अहं वन्दे । सदा माम् अनुगृह्णातु सा । सरस्वत्याः अनुग्रहेण सम्पादितं खलु इदं सम्पत् ? सत्यं खल्वियमुक्तिः – जनानुरागः प्रभवा हि सम्पदः ।

(आसक्तेभ्यः – संपूर्णं सुभाषितमेवम् अस्ति –
जितेन्द्रियत्वं विनयस्य कारणं
गुणप्रकर्षो विनयादवाप्यते ।
गुणाधिके पुंसि जनोऽनुरज्यते
जनानुरागः प्रभवा हि सम्पदः ॥)

अगस्त 8, 2007

पुस्तकानि च अहम्

Posted in Sanskrit at 12:10 पूर्वाह्न द्वारा koham

न जानामि किमर्थं परन्तु यदा किमपि कथापुस्तकं प्राप्नोमि सर्वाणि अन्यानि कार्याणि विस्मरामि । अहं तु bookworm अस्मि इति तु बाल्ये एव ज्ञातं सर्वैः । उदाहरणार्थं पश्यतु – ह्यः तु मम मित्रमेकं नूतनं Harry Potter पुस्तकम् अददात् । अहं पठित्वा पुनर्ददामि इति असूचयम् । ह्यः सायं कार्यालयात् आगमनसमये रेल्याने आरब्धं पुस्तकपठनम् । गृहं प्राप्य भोजनम् अपचम् । तदापि मध्ये मध्ये पुस्तकपठनम् । भोजनसमये तु न पठामि पुस्तकम् । भोजनानन्तरं पात्राणि प्रक्षाल्य पुनः पुस्तकपठनम् । समयः प्रायः ११ वादनं जातम् । सामान्यतया अहं तु १२ वादने निद्रामि इत्यतः अहं पठने रतः एव अभवम् । पुनः समयं पश्यामि – १ वादनम् !! अद्य (इत्युक्ते मङ्गलवासरे) तु कार्यालये मम demo poster presentation आसीत् इत्यतः अहं शीघ्रं निद्रितुं इष्टवानासम् । अतः एतं अध्यायं समाप्य निद्रामि इति निश्चयं कृतवान् । कश्चित् समयानन्तरं समयं पश्यामि – ३ वादनम् ! इदानीं तु निद्रितव्यमेव एतं अध्यायम् समाप्य इति निश्चय्य पठितवान् । एवमेव अभवत् । अन्ते यदा अहं अनिद्रं समयः तु प्रभाते ५ वादनम् । ब्राह्मीमुहूर्तः ! तदा उत्थातव्यम् इति वदन्ति । अहं तु तदा एव निद्रितवान् ! पुनः ८ वादने उत्थाय कार्यालयं गतवान् । दैवानुग्रहेण तु demo, presentation सर्वं समीचीनरीत्या अभवत् । सायङ्काले ५:३० वादने एव महती निद्रा बाधते माम् ! अतः कार्यालयादागत्य निद्रितवान् अहं ६ तः- ८ वादनपर्यन्तम् । इदानीं भोजनं समाप्य किञ्चित् कालं browsing कुर्वन्नस्मि । प्रायः शीघ्रमेव निद्रामि । ७५९ पृष्ठपुस्तकम् एकरात्रौ समापितवान् !

एतत्तु प्रथमवारं न । बहुधा अभवत् एवम् । बाल्ये तु यदा मम परीक्षाः आसन् तदा अपि अहं कथापुस्तकपठने रतः भवामि स्म । माता तु तर्जयति स्म 🙂 । पठितुं किमपि नास्ति चेत् शब्दकोषं पठामि स्म । इदानीं तु परीक्षायाः पूर्वमेव बहुवारं कथापुस्तकानि पठामि । नियमितरूपेण मया पुस्तकं तु पठनीयमेव । addiction अस्ति किम्? इति चिन्तयन्नस्मि ।

अगस्त 3, 2007

हन्त ! कलियुगे कीदृशी स्थितिः

Posted in Sanskrit at 1:16 पूर्वाह्न द्वारा koham

ಸತ್ಯವಂತರಿಗಿದು ಕಾಲವಲ್ಲ इति वदति पुरन्दरदासः । कलियुगोऽयं न प्रशस्तः कालः सत्यवादिनाम् । अस्मिन् कलियुगे धूर्तानामेव वर्धनं भवति।

अधुना स्थितिरेषा एव इति भासते । ये साधुस्वभावाः, न केवलं स्वकार्यं श्रद्धया कुर्वन्ति अन्येषां साहाय्यमपि कुर्वन्ति तेषां न आदरः । कृतज्ञाः विरलाः, कृतघ्नास्तु सर्वत्र । “मम कर्तव्यम् न करोमि चेत् अन्यः तत्कार्यं करोति इति यदि जानामि तर्हि अहं न करोमि मम कार्यं” इत्येव अस्ति ध्येयः । श्रद्धावतः शोषणं एव भवति ।

हन्त! इहलोके तु न दृष्यते परिहारः । परोलके भवति वा इति को वा जानाति ?