जून 10, 2007
कार्पण्यदोषोपहतः
बहुसमयानन्तरं लेखनमेकं लिखन्नस्मि । एतेषु दिनेषु किमर्थम् इति न जानामि परन्तु कश्चित् निरुत्साहः बाधते माम् । यानि कार्याणि पूर्वं मह्यं रोचन्ते स्म तानि इदानीं न रॊचन्ते । पुस्तकानां विशेषतया कथानां पठने मम विशेषा रुचिः । परन्तु पुस्तकपठनेऽपि नास्ति उत्साहः । लेखनविषये अपि नास्ति उत्साहः । अत एव न लिखितवान् अहम् । इदानीं लेखनीयमेव इति निश्चित्य लिखन्नस्मि ।
लेखितुं विषया नासन् इत्यपि नासीत् । यदा कदापि एतस्य विषये लेखनीयं चर्चा करणीया इति अचिन्तयम् । परन्तु लेखितुं चर्चितुम् अपि नोत्साहः । परन्तु अद्य लिखन्नस्मि एकं विषयम् अधिकृत्य ।
गते दिने अहम् अचिन्तयम् इदानीन्तनदिनेषु किं कुर्वन्नस्म्यहम् ? जीवने कः ध्येयः ? केषुचन कार्येषु अहम् आसक्तः अस्मि । परन्तु तैः किमपि प्रयोजनमस्ति वा ? सर्वदा प्रयोजनकरणीयानि कार्याणि एव कर्तव्यानि वा ? जगतः कल्याणार्थं किमपि करणीयम् इति स्वप्नः , महदाशा अस्ति । परन्तु यदधुना मार्गः चितः मया तेन कोऽपि परिणामः भवति वा ? उत केवलं मया जगतः किञ्चिदपि कल्याणं भविष्यति इति भ्रमेण यत् कुर्वदस्ति तत् सर्वं निष्फलं वा ? वस्तुतया मया कोऽपि मार्गः चितः ?
भगवद्गीतायाः द्वितीये अध्याये अर्जुनस्य या प्रार्थना आसीत् इदानीं सैव ममापि –
कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसम्मूढचेताः ।
यच्छ्रेयस्स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥
Himanshu Pota said,
जून 10, 2007 at 9:34 पूर्वाह्न
भवान् कोऽहम् इति नाम चिनोति ततः खलु कोऽहं भवति|
प्रथमः तु भवान् स्वकल्याणम् कुरु तदनन्दरं अन्यानां कल्याणाय चिन्तयतु|
स्वकल्याणस्य एकः मार्गः प्रत्यक्षः अस्ति – यत् किमपि आरम्भं करोति तत् मा विरमताम्|
यद्यपि गीता भवतः मार्गदर्शनाय अस्ति तथापि अहं स्वानुभवात् किञ्चित् लिखामि|
धृष्टतायै क्षमस्व|
हिमांशुः|
sanskritquotes said,
अक्टूबर 3, 2007 at 9:29 पूर्वाह्न
एतत्सुभाषितमस्ति शोभनं प्रस्तुतविषये :
धवलयति समग्रं चंद्रमा जीवलोकं
किमिति निजकलंकं नात्मसंस्थं प्रमार्ष्टि।
भवति विदितमेतत्प्राशयः सज्जनानां
परहितनिरतानामादरो नात्मकार्ये॥