जून 10, 2007

कार्पण्यदोषोपहतः

Posted in Sanskrit at 1:31 पूर्वाह्न द्वारा koham

बहुसमयानन्तरं लेखनमेकं लिखन्नस्मि । एतेषु दिनेषु किमर्थम् इति न जानामि परन्तु कश्चित् निरुत्साहः बाधते माम् । यानि कार्याणि पूर्वं मह्यं रोचन्ते स्म तानि इदानीं न रॊचन्ते । पुस्तकानां विशेषतया कथानां पठने मम विशेषा रुचिः । परन्तु पुस्तकपठनेऽपि नास्ति उत्साहः । लेखनविषये अपि नास्ति उत्साहः । अत एव न लिखितवान् अहम् । इदानीं लेखनीयमेव इति निश्चित्य लिखन्नस्मि ।

लेखितुं विषया नासन् इत्यपि नासीत् । यदा कदापि एतस्य विषये लेखनीयं चर्चा करणीया इति अचिन्तयम् । परन्तु लेखितुं चर्चितुम् अपि नोत्साहः । परन्तु अद्य लिखन्नस्मि एकं विषयम् अधिकृत्य ।

गते दिने अहम् अचिन्तयम् इदानीन्तनदिनेषु किं कुर्वन्नस्म्यहम् ? जीवने कः ध्येयः ? केषुचन कार्येषु अहम् आसक्तः अस्मि । परन्तु तैः किमपि प्रयोजनमस्ति वा ? सर्वदा प्रयोजनकरणीयानि कार्याणि एव कर्तव्यानि वा ? जगतः कल्याणार्थं किमपि करणीयम् इति स्वप्नः , महदाशा अस्ति । परन्तु यदधुना मार्गः चितः मया तेन कोऽपि परिणामः भवति वा ? उत केवलं मया जगतः किञ्चिदपि कल्याणं भविष्यति इति भ्रमेण यत् कुर्वदस्ति तत् सर्वं निष्फलं वा ? वस्तुतया मया कोऽपि मार्गः चितः ?

भगवद्गीतायाः द्वितीये अध्याये अर्जुनस्य या प्रार्थना आसीत् इदानीं सैव ममापि –

कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसम्मूढचेताः ।
यच्छ्रेयस्स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥

Advertisements