अप्रैल 16, 2007

युगादिशुभाशयाः

Posted in Sanskrit at 1:05 पूर्वाह्न द्वारा koham

बहुसमयानन्तरं लिखन्नस्मि लेखनम् । बहूनि कार्याणि आसन्निति तु प्रायः सत्यमेव परन्तु उत्साहः अपि नासीत् । सदा कार्यविषये एव चिन्तनम् । गतेषु दिनेषु कार्यविषयान् विस्मृत्य कश्चित् समयः विरामरूपेण स्वीकृतवानहम् । सद्यो एव जन्मदिनमाचरितं मया | अपि च युगादिपर्वः आसीत् खलु । तदर्थं विरामः ।

जन्मदिनावसरे मे मित्राणि मध्यरात्रौ १२ वादने एव आगत्य मां शुभाशयान् उक्तवन्तः । दूरात् अण्डरहित-cake आनीतवन्तः च । मम महान् सन्तोषः जातः मम तादृशमित्राणि सन्ति ये मद्विषये चिन्तयन्ति मदर्थं तावत् प्रयासं कर्तुं सिद्धानि च इति ज्ञात्वा । मम मित्रेभ्यो सर्वेभ्यो हृत्पूर्वकधन्यवादाः 🙂

सर्वेभ्यो नूतनसंवत्सरस्य शुभाशयाः। सर्वजित्संवत्सरः सर्वषां जीवने सुखमानयतु सर्वेभ्यः कष्टान् जेतुं धैर्यं स्थैर्यं च ददातु ।

अद्य अहं जागरणं कुर्वन्नस्मि यतः प्रभाते ३:१५ वादने मया प्रस्थानं करणीयम् । अहं हवाई गमिष्यामि !!! भाग्यं पश्यतु मम । अस्मिन् वर्षे तत्र एकः conference प्रचलति । तत्र मम paper एकं स्वीकृतम् । मम प्रथम technical publication !!!! ततः प्रत्यागत्य conference विषये हवाई विषये च लिखामि 🙂

Advertisements

2 टिप्पणियाँ »

  1. अजितः said,

    जन्मदिन-सुभाशयाः !

  2. पंक्ज said,

    अण्डरहित cake… अतिउत्तम


एक उत्तर दें

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  बदले )

Google+ photo

You are commenting using your Google+ account. Log Out /  बदले )

Twitter picture

You are commenting using your Twitter account. Log Out /  बदले )

Facebook photo

You are commenting using your Facebook account. Log Out /  बदले )

w

Connecting to %s

%d bloggers like this: