नवम्बर 28, 2006

कालाय तस्मै नमः ।

Posted in Sanskrit at 12:05 पूर्वाह्न द्वारा koham

गच्छति काले वयं बहून् जनान् मिलामः । तेषु बहवः अस्माकं जीवनं परिवर्तयन्ति । अल्पे एव समये तेषु कांश्चन विना जीवनं दुष्करम् इव भासते । तान् विना जीवनं भवितुमर्हति इत्यपि कल्पना न भवति एव । मातापितरौ पितामहीपितामहौ मातामहीमातामहौ भ्रातरः सहोदर्याः अन्ये बान्धवाश्च मित्राणि । तैः विना जीवनं साधयितुं कथं वा साध्यम्?

यदा अहं चेन्नैनगरे पठन् आसं मम बहूनि मित्राणि आसन् । तेषु केचन अतिप्रियमित्राणि । यैः साकमहं सुखदुःखं अनुभूतवान् । वयं चेन्नैनगरतः महाबलिपुरं द्विचक्रिकया गतवन्तः । अन्तिमे वर्षे चेन्नैनगरतः वेदन्ताङ्गळ् पक्षिधामं द्विचक्रिकया गतवन्तः । अन्येऽपि बहूनि मित्राणि आसन् । यदा अहम् अन्तिमवारं सर्वाः पेटिकाः स्वीकृत्य बेङ्गलूरुनगरं प्रति गमनाय सन्नद्धः अभवम् तत्र ये मित्राणि आसन् तांश्च IIT च त्यक्त्वा गन्तुं न इष्टवानहम् । मम अश्रूणि अद्रावयन्नेव ।

परन्तु कालः गच्छति । इदानीं तु तेषु बहूनां सम्पर्कः एव विरलः । यदा कदापि chat मध्ये मिलामः वा ई-पत्रेण द्वित्राणि वाक्यानि विनिमयामः । केचन तु इदानीं स्मृतिपटले न सन्ति एव ।

अहं चिन्तितवान् प्रकृत्या दत्तः एषः वरः वा शापः वा इति । प्रायः शापात् वरः एव इति मम अभिप्रायः । अन्यथा जीवनं बहुदुष्करम् । काश्चन घटनाः यदि वयं विस्मर्तुं न शक्नुमः जीवनं तु असाध्यमिव भवति । अतः वरः एव इति चिन्तयामि ।

सा रम्या नगरी महान्स नृपतिः सामन्तचक्रं च तत् ।
पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः ।
उद्वृत्तः स च राजपुत्रनिवहस्ते बन्दिनस्ताः कथाः ।
सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ ४१ ॥
– भर्तृहरेः वैराग्यशतकम् ।

(P.S. एतस्मिन् श्लोके केषाञ्चन पदानां अर्थान् न सम्यक् जानाम्यहम् । यदि कोऽपि जानाति चेत् कृपया comments विभागे लिखतु। 🙂 )

Advertisements

नवम्बर 19, 2006

गद्यं वा पद्यं वा?

Posted in Sanskrit at 8:54 अपराह्न द्वारा koham


पुरातनकाले संस्कृतभाषया जनाः पद्यकाव्यानि लिखन्ति स्म । बहूनि महाकाव्यानि लिखितानि सन्ति । परन्तु तावन्तः गद्यानि न सन्ति । यदि इतिहासं परिशीलयामः तर्हि पश्यामः यत् रामायणादि बहूनि महाकाव्यानि सन्ति परन्तु गद्यकाव्यानि विरलानि। लोकोक्तिः अपि आसीत् – “गद्यं हि कवीनां मानदण्डः” इति ।

परन्तु अहं चिन्तयामि पद्यकाव्यलेखनम् एव कठिणतरः खलु । यदि छन्दानुसृत्य लिखामश्चेत् ततोऽपि दुष्करः एव इति मम चिन्तनम् । अहं प्रयत्नां करोमि चेत् passable गद्यं लेखितुं शक्नोमि प्रायः । परन्तु पद्यं लेखितुं न शक्नोमि । प्रायः जनप्रवृत्ति: भिन्ना वर्तते । चिन्तितवानहं मया अपि न्यूनातिन्यूनम् एकः श्लोकः लेखनीयः इति । अतः अहं प्रयत्नां कृतवान् । प्रथमतया कस्मिन् विषये लिखामि इति चिन्तितवान् । निश्चितवान् अहं मङ्गलश्लोकरूपेण स्तोत्रं लिखामि इति । अतः उडुपिकृष्णम् स्तोतुम् एतं श्लोकं लिखितवानहम् अनुष्टुप्छन्दसि ।

वेणुनादप्रियं कृष्णं रजतपुरवासिनम् ।
मध्वाचार्यनुतं वन्दे वादिराजेन पूजितम् ॥

तदनन्तरं मया ज्ञातम् अस्माकं forum मध्ये एतत् पद्यमस्ति इति चातुर्मास्यकथा

अतः दृश्यते जनाः सन्ति ये छन्दसि लेखितुं शक्नुवन्ति ।

मम सामर्थ्यं तु तावत् नास्ति एव 😦 । परन्तु एकः प्रयत्नः आरम्भः कृतः इति समाधानमस्ति ।

नवम्बर 9, 2006

व्यर्थव्ययः ।

Posted in Sanskrit at 10:46 अपराह्न द्वारा koham

मम चिन्तनम् आसीत् एतं विषयम् अधिकृत्य लेखितुम् । संयोगात् अद्य beetle bailey cartoon मध्ये तद्विवषयः एव आगत: । अस्मिन् देशे तु किञ्चित् अधिक्म् एव अनावश्यकव्ययः भावतीति ममाभिप्रायः । मया बहुवारं मित्रेभ्यो उक्तं च मित्राणां पीडा कृता च । सूक्ष्मविषयेषु एव यदि अस्माभिः सर्वैः किञ्चित् प्रयासः क्रीयते चेत्तदेव मिलित्वा बृहत्सागर इव भविष्यति । उदाहरणार्थं – paper napkins | अहं मध्याह्नभोजनार्थं उपाहारगृहं गच्छामि । तत्र भोजनानन्तरं हस्तप्रक्षालनार्थं paper napkins दास्यन्ति । जनाः दश napkins गृह्णन्ति । तेषु द्वित्राणाम् उपयोगं कुर्वन्ति । अन्यान् विना उपयोगं कृते एव क्षिपन्ति । यदि अस्मासु एकैकः प्रतिदिनं 1 napkin एव व्यर्थः न करिष्यति, चिन्तयन्तु आहत्य अमेरिकादेशे कति napkins व्यर्थाः न भवन्ति । तेन कतिपय वृक्षाः रक्षिताः भवेयु: ।

खाद्यपदार्थानां विषये तु इतोऽपि अधिका जागरूकता आवश्यकी । भारते एव लक्षाधिकजनाः दिनस्य एकं भोजनं सम्यग्रीत्या कर्तुं न शक्नुवन्ति । आफ्रीकीदेशेषु कोट्याधक शिशवः undernourishment कारणात् मरन्ति। अन्येषु देशेष्वपि जनाः शिशवश्च विना आहारं पीडाम् अनुभवन्तः सन्ति । भोजनं तु लक्ष्मी इव | तस्य व्ययीकरणं तु लक्ष्म्याः अनादर इव । यदि एतदङ्गीकर्तुं सिद्धाः न सन्ति चेदपि तान् बालान् जनान् च दृष्ट्वा तु किञ्चित् अस्माभिः चिन्तनं करणीयम् एव । अस्मासु बहवः धनं दत्वा साहाय्यं कर्तुं न सिद्धा एव (मम पूर्वलेखनं पश्यतु) । परन्तु यदि अस्माभिः व्यर्थव्ययः न क्रीयते तेन एव किञ्चित् कार्यं कृतम् इव इति मम चिन्तनम् ।

जानाम्यहम् अत्र वक्तुं शक्यते यत् तेन तु प्रायः अधिकः लाभः नास्तीति । परन्तु ममाभिप्रायः अस्ति मया तु किमपि व्यर्थं न कृतम् इति समाधानां तु भवति एव ।

जानामि च यत् मया मम मित्राणि बहुवारं पीडितानि च इति । ते उक्तवन्तश्च एतैः विषयैः मया तेषाम् आनन्दः भग्नः कृतः इत्यपि । कृपया क्षम्यताम् । मम आशा तु सा न आसीत् एव ।

beetle_bailey_no_food.gif

नवम्बर 1, 2006

भगवता पाठितः पाठ: ।

Posted in Sanskrit at 10:19 अपराह्न द्वारा koham

boston नगरे सद्यः एव संस्कृतभारत्याः वार्षिकमेलनं प्राचलत् । तत्र बहवः विचाराः चर्चिताः । एकस्मिन् सत्रे Pride of India पुस्तकविक्रयणविषये चर्चा अभवत् । पुस्तकस्य मूल्यं तु 50$ अस्ति । मम अभिप्रायः आसीत् यदि paperback edition भविष्यति पुस्तकस्य, मूल्यं किञ्चित् न्यूनं भवेत्, अधिकाः जनाः क्रीणीयुः इति । तदेव मया प्रकटित: अपि । अनन्तरं g-महोदयः माम् उक्तवान् ये क्रॆतुमिच्छन्ति ते 50$ दत्वा अपि क्रीणन्ति, ये न क्रेतुम् इच्छन्ति, यदि पुस्तकस्य मूल्यं 25$ भवति चेदपि न क्रीणन्ति, केचन ipod कृते 150$ दातुं सिद्धाः परन्तु पुस्तकार्थं 50$ न ददति | ते न केवलं पुस्तकं क्रीणन्ति संसथायाः साहाय्यं अपि कुर्वन्ति इति न चिन्तयन्ति।

अनन्तरं रात्रौ अहं बोस्टन्तः विमानेन प्रस्थानं कृतवान् । प्रकृतिविकोपकारणात् विमानयानं तु विलम्बेन आगतम् । अहं 12:15am BWI विमानस्थानकं प्राप्तवान् । केचन मित्रेभ्यो दूरवाणीं कृतवान् । परन्तु रात्रिसमयः । अपि च तद्दिने एव समयपरिवर्तनम् अभवत् (EDT to EST)| प्रायः सर्वे निद्रन्तः आसन् । मया अपि सङ्कोच: अनुभवितः । पूर्वतन समयानुसारात्तु 1:15am इव । किमर्थमहं मित्राणां निद्राभङगं कुर्याम्? इति । अतः cab स्वीकृत्य गृहमागतवानहम् । cab fare तु 50$ आसीत् 😦 । तदा चिन्तितवानहं – भगवता सम्यक् पाठः पाठितः । cab fare कृते 50$ दातुं सिद्धोऽस्मि परन्तु पुस्तकार्थं तन्मूल्यमधिकम् इति चिन्तितं मया ।

विचार: आगतः मनसि यत् मम आद्यताः काः ? अन्ते धनसम्पादनं किमर्थम्? केषां पदार्थानां कृते अहं धनव्ययं कर्तुं सिद्धोऽस्मि ? चिन्तयन् अस्मि ।