नवम्बर 28, 2010
काव्यानां प्रभेदाः, भासपरिचयश्च
मम भाषावर्गे अधुना भासरचितं मध्यमव्यायोगं पठितुम् उद्युक्ताः स्मः । तदर्थं पीठिकारूपेण मया किञ्चित् presentation सज्जीकृतम् । तदत्र स्थाप्यते ।
P.S. एतस्मिन् अनेके भाषागताः अन्ये च दोषाः स्युः । ते विद्वद्भिः क्षन्तव्याः । एतत् मनसि निधाय एव एतत् presentation द्रष्टव्यम् इति प्रार्थना । ये slides प्राप्तुम् इच्छन्ति, ते कृपया मम संपर्कं कुर्वन्तु ।
फ़रवरी 27, 2008
स्वर्गे पञ्चजनान् मेलिष्यामः
गतसप्ताहे मया Mitch Albom नामकस्य लेखकस्य The 5 people you meet in heaven नाम किञ्चन पुस्तकं पठितम् । तस्मिन् पुस्तके लेखकः भावं प्रकटयति यत् मरणानन्तरं वयं पञ्चजनान् मिलामः ये अस्माकं जीवनस्य कासाञ्चन घटनानाम् अर्थं बोधयन्ति । एतत् किमर्थम् ? कदाचित् वयं न अवगच्छेम यत् किमर्थम् इयं घटना प्रवृत्ता ? किमर्थं मया सह भगवता / केनापि एवं व्यवहृतम् ? इति । लेखकेन रचितायां कथायां मरणसमनन्तरं पञ्चजनाः जीवनस्य प्रमुखानां घटनानां विवरणानि ददति । अनेन एव काचित् मनःशान्तिः प्राप्यते । अयं हि स्वर्गः इति भावः लेखकस्य ।
पुस्तकस्य नायकः एकस्मिन् मनोरञ्जनादायि-उद्याने (theme park) कार्यं करोति । सः पूर्वं युद्धे आघातितः सन् पादाभ्यां सम्यक् चलितुं न शक्नोति । तस्य पिता तस्मिन्नेव संस्थायां कार्यं करोति स्म । नायकः तत्र कार्यं कर्तुं न इच्छति स्म । परन्तु कारणान्तरात् तेन तत्रैव कार्यं करणीयं भवति । एकस्मिन् दिने एकं यन्त्रं सम्यक् कार्यं न करोति । तदा घटितायां दुर्घटनायाम् एकां बालिकां रक्ष्यमाणः नायकः मृतो भवति । तेन न ज्ञायतेऽपि यत् सा जीविता उत सा अपि मृता इति । कथं स्वजीवनस्य वृत्तान्तं श्रुत्वा सः समाधानम् आप्नोति इति कथा ।
लेखकः उपोद्घाते कथयति – “एतत् पुस्त्कं तेभ्यः अर्पितं ये जीवने न अवगतवन्तः जनाः तान् कियत् इच्छन्ति, तेषु आदरवन्तः सन्ति इति । प्रायः मरणानन्तरं तु अवगच्छेयुः ।”
कथा मनोहरा अस्ति । स्वर्गविषये लेखकस्य कश्चित् भिन्नः अभिप्रायः अपि चिन्ताजनकः किञ्चित् आशाप्रदः अपि 😉 । पुस्तकपठने आसक्तवद्भिः इदं पुस्तकं पठनीयम् एव ।
फ़रवरी 25, 2008
परहस्तगतं धनं…प्रत्यागतम् !!
अद्य कश्चन अद्भुतः प्रवृत्तः इव। अहं भोजनार्थं अन्यत्र गच्छन् आसम् । तस्मिन् एव प्रासादे (building?) वित्तकोषस्य वित्तवितरणयन्त्रम् (ATM) अपि अस्ति । मया किञ्चित् धनं तत्र स्थापनीयम् आसीत् । तदर्थं एकस्मिन् निवेष्टे (envelope) धनं स्थापयित्वा मम नाम कार्यालयस्य दूरवाणीसङ्ख्या च अलिखम् । तन्नन्तरं तत्र अगमम् ।
भोजनालयं गत्वा भोजनं हस्तयोः स्वीकर्तुं तत् निवेष्टम् प्रावारकस्य कोषे स्थापितम् । भोजनं स्वीकृत्य धनं दत्त्वा उपवेष्टुम् अन्यत्र गतम् । उपवेशनसमये लक्षितं यत् तत् निवेष्टं नासीत् प्रावारकस्य कोषे । हृदयं स्थगितम् इव अभवत् । पुनःपुनः तस्य अन्वषणं कृतं परन्तु न प्राप्तम् । निराशाभावेन भोजनं समाप्य कार्यालयं प्रति अगमम् । मनसि आशाभावः उत्पन्नः यत् कोऽपि निवेष्टं दृष्ट्वा तस्योपरि लिखितां सङ्ख्यां प्रति सम्पर्कं कुर्यात् इति । कार्यालये प्राप्ते कोऽपि दूरभाषणेन सन्देशं स्थापितवान् अस्ति इति दृष्ट्वा रोमाञ्चितः । सन्देशः इत्थम् आसीत् – “मम नाम ___ । मया भवतः निवेष्टं प्राप्तम् । तदहं प्रासादस्य स्वागतकार्यालयाय (reception desk) दत्तवानस्मि” इति । एतच्छ्रुत्वा आनन्दितोऽहं तत्र गत्वा निवेष्टं स्वीकृत्य वित्तकोषस्य यन्त्रे स्थापितवान् । तन्नन्तरं तस्य महाशयस्य सम्पर्कं कृत्वा धन्यवादान् समर्पितवान् ।
परहस्तगतं धनं न पुनरायाति इति प्रतीतिः । परन्तु दैवानुग्रहे सति पुनरायाति इति भाति 🙂
पुनरुज्जीवनम्?
दीर्घसमयात् अत्र किमपि न लिखितं मया । यद्यपि बहून् व्याजान् दातुं शक्नोमि , उत्साहो नासीदित्येव कारणम् इति अङ्गीक्रियते मया । इतः परं तु श्रद्धया यत्किञ्चित् लेखनीयम् इति निर्धारः ।
एतस्मिन् समये किं किं प्रवृत्तम् ? PhD संशोधनकार्ये किञ्चित् क्लेशः अनुभूतः, पाठाः पठिताः, क्वचित् संस्कृतं पाठितम् अपि, समयः यापितः । सुखकर्यौ प्रमुखे घटने तु मम भारतप्रवासः , गते सप्ताहे प्रचलिता कक्ष्या च । भारते गृहे उषित्वा बहूनि विविधानि प्रियाणि मधुराणि खादितानि 🙂 । निद्रा च कृता । बान्धवा अपि मेलिताः । कर्णाटके हासननगरे हासननगरस्य प्रथमं संस्कृतसम्मेलनं प्रवृत्तम् । तत्र अहं अगच्छम् । हासननगरे एव मया प्रथमतया संस्कृताध्ययनं कृतम् । संस्कृतपाठशालायाः अध्यापक्यः मेलिताः । मां दृष्ट्वा ताः अपि सन्तुष्टाः । सम्मेलनमपि ज्ञानप्रदम् आसीत् ।
गते सप्ताहे संस्कृतसाप्ताहान्तकक्ष्या चालिता । तत्र जनानाम् उत्साहः मयि अपि किञ्चित् उत्साहं अजनयत् । इदानीं मम स्नेहिताभ्यां सह सम्मिल्य किञ्चित् अध्ययनं करोमि प्रतिसप्ताहम् । तथा हि श्रीनिवासन्-महोदयः यः लघुसिद्धान्तकौमुदीं पाठयति, तस्य कक्ष्यायां भागं वोढुम् अनुमतिं दत्तवानस्ति । मया अद्य किञ्चित् लघुसिद्धान्तकौमुद्याः आध्ययनं कृतम् । इतः परं नियमितरूपेण अध्ययनं करणीयम् ।
अवशिष्टमस्ति PhD संशोधनम् । तत्रपि किञ्चित् प्रगतिः अस्ति । प्रार्थये शीघ्रमेव अधिका प्रगातिर्भवतु इति ।
सितम्बर 9, 2007
भूतले पुनरवतरिता संस्कृतगङ्गा
गत-सप्ताहान्ते Edison, New Jersey नगरे प्राचलत् संस्कृतभारत्याः आवासीयशिबिरं जाह्नवी नाम । शुक्रुवासर-प्रभाततः सोमवासर मध्याह्नपर्यन्तं भागिनः संस्कृतं श्रुतवन्तः पठितवन्तः च । दूरतः Seattle नगरतः जनाः आगताः । Canadaतः च भारतदेशतः शिक्षकाः आगतवन्तः । विभिन्नेभ्यः प्रदेशेभ्यः ११७ भागिनः आगताः । ३-७३ वर्षीयाः आसन् शिबिरेऽस्मिन् ।
उत्तमरीत्या प्रवृत्तम् शिबिरम् । सर्वे भागिनः सन्तुष्टाः संस्कृतकार्यार्थं प्रेरिताः अभवन् ।
केचन चित्राणि च press release अत्र अस्ति ।
http://jaahnavii2007.org/Documents/JahnaviPR.pdf
अगस्त 14, 2007
आतिसुन्दरः चित्रश्लोकः
संस्कृतभाषा नाम कौतुकम् (The Wonder that is Sanskrit) इत्यस्मिन् पुस्तके मया दृष्टोऽयं श्लोकः ।
सा सेना गमनारम्भे रसेनासीदनारता ।
तारनादजना मत्तधीरनागमनामया ॥
अर्थः – ” That army was very efficient and as it moved, the warrior heroes were very alert and performed their duties with great concentration. The soldiers in that army made a loud sound. The army was adorned with intoxicated and restive elephants. No one was there with any thought of pain. “
श्लोकेऽस्मिन् कः विशेषः ? चित्रं पश्यन्तु । श्लोके वर्णानां विन्यासः डमरिणं द्योतयति । रेखा ABC मध्ये यानि अक्षराणि सन्ति ते प्रथमपादं रचयन्ति । तथा GHIJ द्वितीयं पादम् । तृतीयं पादम् KLMN चतुर्थं पादम् DEF | अतिसुन्दरं किल ! अदृष्टपूर्वं मया ईदृशश्लोकाः । पुस्तके ईदृशकौतुकानि बहूनि सन्ति । एतानि संस्कृतभाषां पठितुं अध्येतुं च न प्रेरयति किम् ?
अगस्त 11, 2007
जनानुरागः प्रभवा हि सम्पदः
इदानीम् अहं तु internship कर्तुम् आगतवान् California राज्यम् । यद्यपि अहं मासत्रयं यावत् एव अत्र आगतवान् मम मित्राणि तु अहं सुदीर्घकालं तान् न मिलामि इव मां सत्कृत्य प्रेषितवन्तः । प्रस्थानात् पूर्वं त्रीणि दिनानि यावत् अहं स्वगृहे भोजनमेव न कृतवान् । किमपि मित्रं तस्य उत तस्याः गृहं भोजनार्थं आह्वयति स्म । इदानीमपि मह्यं पत्राणि प्रेषयन्ति । दूरवाण्या सम्भाषणं कुर्वन्ति च । तत्रत्यवार्ताः सर्वाः श्रावयन्ति । कः किं कृतवानिति । मम महान् सन्तोषः ईदृशमित्राणि सन्ति मे इति । सर्वाणि मित्राणि सर्वदा स्मराम्यहम् । माम् इदृशप्रीतिं प्रेम च दर्शितवद्भ्यः सर्वेभ्यः मित्रेभ्यः धन्यवादाः । मम मित्राणि एव मम महती सम्पत्तिः ।
तथा हि संस्कृतभाषाप्रचारार्थं यदा कदापि अन्यप्रदेशगमनं भवति । तदापि जनाः प्रेम्णा स्वगृहे वासं कल्पयन्ति । एकस्थानात् अन्यत् स्थानं प्रति नयन्ति स्वीयवाहने । एतं जनानुरागं सम्पादयितुं अवकाशं कल्पितं संस्कृतभाषया । तां वाग्देवीम् अहं वन्दे । सदा माम् अनुगृह्णातु सा । सरस्वत्याः अनुग्रहेण सम्पादितं खलु इदं सम्पत् ? सत्यं खल्वियमुक्तिः – जनानुरागः प्रभवा हि सम्पदः ।
(आसक्तेभ्यः – संपूर्णं सुभाषितमेवम् अस्ति –
जितेन्द्रियत्वं विनयस्य कारणं
गुणप्रकर्षो विनयादवाप्यते ।
गुणाधिके पुंसि जनोऽनुरज्यते
जनानुरागः प्रभवा हि सम्पदः ॥)
अगस्त 8, 2007
पुस्तकानि च अहम्
न जानामि किमर्थं परन्तु यदा किमपि कथापुस्तकं प्राप्नोमि सर्वाणि अन्यानि कार्याणि विस्मरामि । अहं तु bookworm अस्मि इति तु बाल्ये एव ज्ञातं सर्वैः । उदाहरणार्थं पश्यतु – ह्यः तु मम मित्रमेकं नूतनं Harry Potter पुस्तकम् अददात् । अहं पठित्वा पुनर्ददामि इति असूचयम् । ह्यः सायं कार्यालयात् आगमनसमये रेल्याने आरब्धं पुस्तकपठनम् । गृहं प्राप्य भोजनम् अपचम् । तदापि मध्ये मध्ये पुस्तकपठनम् । भोजनसमये तु न पठामि पुस्तकम् । भोजनानन्तरं पात्राणि प्रक्षाल्य पुनः पुस्तकपठनम् । समयः प्रायः ११ वादनं जातम् । सामान्यतया अहं तु १२ वादने निद्रामि इत्यतः अहं पठने रतः एव अभवम् । पुनः समयं पश्यामि – १ वादनम् !! अद्य (इत्युक्ते मङ्गलवासरे) तु कार्यालये मम demo च poster presentation आसीत् इत्यतः अहं शीघ्रं निद्रितुं इष्टवानासम् । अतः एतं अध्यायं समाप्य निद्रामि इति निश्चयं कृतवान् । कश्चित् समयानन्तरं समयं पश्यामि – ३ वादनम् ! इदानीं तु निद्रितव्यमेव एतं अध्यायम् समाप्य इति निश्चय्य पठितवान् । एवमेव अभवत् । अन्ते यदा अहं अनिद्रं समयः तु प्रभाते ५ वादनम् । ब्राह्मीमुहूर्तः ! तदा उत्थातव्यम् इति वदन्ति । अहं तु तदा एव निद्रितवान् ! पुनः ८ वादने उत्थाय कार्यालयं गतवान् । दैवानुग्रहेण तु demo, presentation सर्वं समीचीनरीत्या अभवत् । सायङ्काले ५:३० वादने एव महती निद्रा बाधते माम् ! अतः कार्यालयादागत्य निद्रितवान् अहं ६ तः- ८ वादनपर्यन्तम् । इदानीं भोजनं समाप्य किञ्चित् कालं browsing कुर्वन्नस्मि । प्रायः शीघ्रमेव निद्रामि । ७५९ पृष्ठपुस्तकम् एकरात्रौ समापितवान् !
एतत्तु प्रथमवारं न । बहुधा अभवत् एवम् । बाल्ये तु यदा मम परीक्षाः आसन् तदा अपि अहं कथापुस्तकपठने रतः भवामि स्म । माता तु तर्जयति स्म 🙂 । पठितुं किमपि नास्ति चेत् शब्दकोषं पठामि स्म । इदानीं तु परीक्षायाः पूर्वमेव बहुवारं कथापुस्तकानि पठामि । नियमितरूपेण मया पुस्तकं तु पठनीयमेव । addiction अस्ति किम्? इति चिन्तयन्नस्मि ।
अगस्त 3, 2007
हन्त ! कलियुगे कीदृशी स्थितिः
ಸತ್ಯವಂತರಿಗಿದು ಕಾಲವಲ್ಲ इति वदति पुरन्दरदासः । कलियुगोऽयं न प्रशस्तः कालः सत्यवादिनाम् । अस्मिन् कलियुगे धूर्तानामेव वर्धनं भवति।
अधुना स्थितिरेषा एव इति भासते । ये साधुस्वभावाः, न केवलं स्वकार्यं श्रद्धया कुर्वन्ति अन्येषां साहाय्यमपि कुर्वन्ति तेषां न आदरः । कृतज्ञाः विरलाः, कृतघ्नास्तु सर्वत्र । “मम कर्तव्यम् न करोमि चेत् अन्यः तत्कार्यं करोति इति यदि जानामि तर्हि अहं न करोमि मम कार्यं” इत्येव अस्ति ध्येयः । श्रद्धावतः शोषणं एव भवति ।
हन्त! इहलोके तु न दृष्यते परिहारः । परोलके भवति वा इति को वा जानाति ?
जुलाई 29, 2007
रामेश्वरेऽर्जुनगर्वभङ्गम्
विश्ववाणी नाम नूतनसंस्कतपत्रिकायां प्रकाशितम् काव्यखण्डम् । (http://www.speaksanskrit.org/campus/)
स्वभक्तानां कपीनांश्च तारणाय महार्णवे ।
सेतुबन्धनसन्नद्धं राघवं तन्नमाम्यहम् ॥ १ ॥
राममेवंविधा ध्यायन् रामं मनसि चिन्तयन् ।
सूर्ये चास्तमये प्राप रामेश्वरमथार्जुनः ॥ २ ॥
रामेश्वरं तथा नत्वा जगामासौ धनुर्धरः ।
रामेनैवाश्रितं स्थानं तीरं रत्नाकरस्य च ॥ ३ ॥
अपश्यत्तत्र सेतुं तन्निर्मितं वानरादिभिः ।
तन्निर्माणकथां ध्यायन्नवदत्स महारथी ॥ ४ ॥
धनुर्विद्यासमर्थेन राघवेन महात्मना ।
शक्यस्स्यान्ननु निर्मातुं सेतुरेष शरैरपि ॥ ५ ॥
स्वयं कोदण्डपाणिश्च साहाय्यं सेतुबन्धने ।
वानराणां मृगाणां च किमर्थं सोऽप्ययाचत ॥ ६ ॥
कार्येऽस्मिन् फलतामाप्तुं शक्तस्स्यामहमेव हि ।
एतच्छ्रुत्वा वचस्तस्य समीपस्थः कपीश्वरः ॥ ७ ॥
अपृच्छदर्जुनं वीरं धनुर्धर भवान् तु कः ।
समर्थं वेत्ति चात्मानं दुष्करस्यास्य साधने ॥ ८ ॥
पाण्डुपुत्रः पृथासूनुः द्रोणशिष्योऽहमर्जुनः ।
इत्यवदत्स गाण्डीवी महागर्वसमन्वितः ॥ ९ ॥
असाध्यं खलु कार्यं तच्छताधिकजनैरपि ।
वानरैश्च सहस्रैश्च मृगवृन्दैश्च निर्मितम् ॥ १० ॥
अशक्यं भवताप्येतदिति प्राह स वानरः ।
श्रुत्वेदं वचनं पार्थो वानरं पुनरब्रवीत् ॥ ११ ॥
परन्त्वहमसामान्य इन्द्रेणाप्यपराजितः ।
अवश्यं साधयिष्यामि कार्यमेतत्तु वानर ॥ १२ ॥
इत्युक्त्वा तु तदा पार्थो रतोऽभूत्सेतुबन्धने ।
सेतुर्योजनपर्यन्तं क्षणेष्वेव हि निर्मितः ॥ १३ ॥
आश्चर्येण तु तद्दृष्ट्वा तिष्ठत्वित्याह वानरः ।
परीक्षेऽहमिमं सेतुं भारं वहति किं मम ॥ १४ ॥
स्पर्शेन कपिपादस्य भग्नोऽभूत्सव्यसाचिना ।
रचितश्शरसेतुश्च चकितोऽभूत्स पाण्डवः ॥ १५ ॥
रचयामि पुनस्तर्हि क्षणमेकं हि तिष्ठ भोः ।
इत्युक्त्वा तु पुनर्यत्नमकरोदर्जुनस्तदा ॥ १६ ॥
रचितस्तेन सेतुश्च कपिभग्नो पुनःपुनः ।
बहुधाप्येवमेवाभूज्जगादान्ते तमर्जुनः ॥ १७ ॥
न शक्नोमि शरैस्सेतुं निर्मातुं वानराधिप ।
प्राणान् महोदधावस्मिन्नहङ्कारी त्यजाम्यहम् ॥ १८ ॥
प्राणत्यागाय सन्नद्धमर्जुनं वानरोऽब्रवीत् ।
लभसे किमनेन त्वं तिष्ठ हे पुरुषर्षभ ॥ १९ ॥
अहङ्कारविमुक्तस्त्वमीश्वरं राममाश्रय ।
सर्वाणि तव कार्याणि साधयिष्यस्यनेन हि ॥ २० ॥
किं वा साध्यं बलिष्ठेन रामस्यानुग्रहं विना ।
किं वाऽसाध्यं मृगैश्चापि राघवानुग्रहे सति ॥ २१ ॥
भवता सत्यमुक्तं वै मदान्धेन मया कथम् ।
रामेणाशक्यमित्येतत् कार्यमस्तीति चिन्तितम् ॥ २२ ॥
नौम्यहं राघवं राममशक्याद्भुतसाधकम् ।
यस्यापि नाममात्रेण शिला तरति सागरे ॥ २३ ॥
महात्मन्ननुगृह्णातु दासोऽहं भवतस्सदा ।
दण्डवत्प्राणमत्पार्थ उक्त्वैवं वानरं तदा ॥ २४ ॥
सोऽब्रवीन्मन्दहासेन पार्थाजेयस्सदा भव ।
तुष्टोऽहं तव वीर्येणोत्तिष्ठ हे भरतर्षभ ॥ २५ ॥
पताकस्थो भविष्यामि हनूमानहमेव हि ।
कपिध्वजेति प्रख्यातं पामि त्वां सर्वदा युधि ॥ २६ ॥
पार्थस्य गर्वभङ्गं तु कृतमेवं हनूमता ।
अहङ्कारविमुक्तिं नस्सोऽनुगृह्णातु सर्वदा ॥ २७ ॥
(परिष्कृतवद्भ्यां प्रोत्साहञ्च दत्तवद्भ्यां रामप्रियधनञ्जयाभ्यां धन्यवादाः ।)