04.16.07
युगादिशुभाशयाः
बहुसमयानन्तरं लिखन्नस्मि लेखनम् । बहूनि कार्याणि आसन्निति तु प्रायः सत्यमेव परन्तु उत्साहः अपि नासीत् । सदा कार्यविषये एव चिन्तनम् । गतेषु दिनेषु कार्यविषयान् विस्मृत्य कश्चित् समयः विरामरूपेण स्वीकृतवानहम् । सद्यो एव जन्मदिनमाचरितं मया | अपि च युगादिपर्वः आसीत् खलु । तदर्थं विरामः ।
जन्मदिनावसरे मे मित्राणि मध्यरात्रौ १२ वादने एव आगत्य मां शुभाशयान् उक्तवन्तः । दूरात् अण्डरहित-cake आनीतवन्तः च । मम महान् सन्तोषः जातः मम तादृशमित्राणि सन्ति ये मद्विषये चिन्तयन्ति मदर्थं तावत् प्रयासं कर्तुं सिद्धानि च इति ज्ञात्वा । मम मित्रेभ्यो सर्वेभ्यो हृत्पूर्वकधन्यवादाः
सर्वेभ्यो नूतनसंवत्सरस्य शुभाशयाः। सर्वजित्संवत्सरः सर्वषां जीवने सुखमानयतु सर्वेभ्यः कष्टान् जेतुं धैर्यं स्थैर्यं च ददातु ।
अद्य अहं जागरणं कुर्वन्नस्मि यतः प्रभाते ३:१५ वादने मया प्रस्थानं करणीयम् । अहं हवाई गमिष्यामि !!! भाग्यं पश्यतु मम । अस्मिन् वर्षे तत्र एकः conference प्रचलति । तत्र मम paper एकं स्वीकृतम् । मम प्रथम technical publication !!!! ततः प्रत्यागत्य conference विषये हवाई विषये च लिखामि
03.09.07
Soul searching
The glare of the searchlight is now upon me.
Laying me threadbare.
Exposing my deficiencies and shortcomings.
The veins of rock and the knots of stone.
Upsetting me from my high pedestal.
Will my soul pass this intense scrutiny?
Unlikely. Meanwhile, I await redemption.
Recollecting what I was.
And shying away from what I have become.
02.02.07
कटीलुक्षेत्रमहिमा
भारतात् प्रत्यागतोऽस्मि। समयः कथं व्यतीत इत्येव न जाने । मम मातापिताभ्रातॄन् मेलितवान् । मात्रा पचितानि मधुराणि भक्षितवान् च।
अस्मिन् प्रवासे मया एकः विशेषः कार्यक्रमः वीक्षितः । यक्षगानम् (अधिकानि विवरणानि आवश्यकानि चेत् wikipedia पश्यतु) !! प्रसङ्गमासीत् कटीलुक्षेत्रमहिमा । मयापि पूर्वं न श्रुता एषा कथा । यक्षगाने प्रस्ताविता कथा एवमासीत् ।
शुम्बासुरस्य सेनाधिपतिः अरुणासुरः स्वामिनः मृत्योरनन्तरं पलायति । अनन्तरं सः तपः कृत्वा सरस्वतीसमेतब्रह्माणं साक्षात्करोति । केनापि द्विपदिना वा चतुष्पदिना वा अस्त्रेण वा मम मृत्युः मा भवतु इति वरं प्राप्नोति ब्रह्मणः । अपि च सरस्वतीं प्रणम्य गायत्रीमन्त्रोपदेशं प्राप्नोति । एतं मन्त्रं सदा जप । तेन मन्त्रेण रक्षितो भवसि इति निर्दशति च । एतेन प्रकारेण वरं च मन्त्रोपदेशं प्राप्तः अरुणासुरः चण्डप्रचण्डयोः साहाय्येन सेनां सज्जीकृत्य स्वर्गं जेतुं प्रस्थानं करोति । तं पराजयितुमशक्ता देवाः शिवविष्णुभ्यां प्रेरिताः देवीं प्रार्थयन्ति । देवी प्रत्यक्षीभूत्वा तान् सूचयति सोऽसुरः गायत्रीमन्त्रजपे निरतोऽस्ति । अतः मन्त्रेण रक्षितः । यदि तस्य जपभङ्गः भवति अहं तं संहर्तुं शक्नोमि इति ।
देवैः प्रार्थितः बृहस्पतिः अरुणासुरस्य आस्थानं गत्वा तस्य प्रशंसां कृत्वा तस्य अहङ्कारं प्रचोदयित्वा जपत्यागं कारयति । अनन्तरं देवी सुन्दरस्त्रीरूपधारी उद्याने आगमिष्यति । चण्डप्रचण्डाभ्यां दृष्टा सा युवती । सा एव स्वर्गाधिपत्युः अरुणासुरस्य पत्नी भवितुमर्हन्ति इति निश्चितवन्तौ अरुणासुरं सूचयतः । तां दृष्ट्वा मोहितः स तां परिणेतुमिच्छति । तदा भवतः स्वामिनं सम्हारितवती देवी अहमेव इति वदति सा युवती । प्रतीकारकामी सः तां सम्हर्तुं चण्डप्रचण्डौ प्रेषयति । तौ देवी सम्हरति । तदा स एव युद्धाय समागच्छति । ब्रह्मणा वरेण रक्षितं तं सम्हर्तुं देवी षत्पदिरूपं धरति सम्हरति च ।
इन्द्रादिदेवता आगत्य तदा तां पूजयन्ति शामयन्ति च । सा तान् अनुगृह्य जनान् अनुग्रहीतुं तत्रैव कटीलुक्षेत्रे प्रतिष्ठिता भवति ।
अधिकानि विवरणानि kateel इति google search द्वारा अपि लभन्ते ।
12.26.06
बिन्दुमात्रं विशिष्यते !
कियदुत्तमाय भवति यदि सुलभतया एवं कर्तुं शक्नुमश्चेत् । याः घटनाः वार्ताः अस्मान् बाधयितुमर्हन्ति ताभ्यः वयं अस्माकं मनसि प्रवेशमेव न दद्मः । चिन्ताग्रस्ताः न भवेम । चिन्ता यदि बाधयति प्रायः रात्रौ निद्रा नागच्छति । म्लानमुखः भूत्वा तिष्ठति च | आसक्तिः न भवति ।
यथा :
चिन्तायाश्च चितयाश्च बिन्दुमात्रं विशिष्यते ।
चिता दहति निर्जीवं चिन्ता दहति जीविनाम् ॥
परन्तु किं कुर्मः? जीवने चिन्ता एव मा भवतु इति सर्वेषाम् अभिलाशा भवति एव । परन्तु यदा कदा चिन्तायाः आक्रमणं भवत्येव । तदा प्रायः स्नेहितैः साकं सम्भाषणं कुर्मः वा यानि कार्याणि अस्मभ्यं रोचते तानि कार्याणि कुर्मः । यदि सन्तोषं प्राप्नुमः चिन्तां विस्मर्तुं शक्नुमः । यथा आङ्ग्लभाषया वदन्ति “Laughter is the best medicine” इति । सुभाषितमपि अस्ति खलु :
सर्पाः पिबन्ति पवनं न च दुर्बलास्ते ।
शुष्कैस्तृणैः वनगजा बलिनो भवन्ति ।
कन्दैः फलैः मुनिवराः क्षपयन्ति कालम् ।
सन्तोष एव पुरुषस्य परं निधानम् ॥
अलं चिन्तया !!
11.28.06
कालाय तस्मै नमः ।
गच्छति काले वयं बहून् जनान् मिलामः । तेषु बहवः अस्माकं जीवनं परिवर्तयन्ति । अल्पे एव समये तेषु कांश्चन विना जीवनं दुष्करम् इव भासते । तान् विना जीवनं भवितुमर्हति इत्यपि कल्पना न भवति एव । मातापितरौ पितामहीपितामहौ मातामहीमातामहौ भ्रातरः सहोदर्याः अन्ये बान्धवाश्च मित्राणि । तैः विना जीवनं साधयितुं कथं वा साध्यम्?
यदा अहं चेन्नैनगरे पठन् आसं मम बहूनि मित्राणि आसन् । तेषु केचन अतिप्रियमित्राणि । यैः साकमहं सुखदुःखं अनुभूतवान् । वयं चेन्नैनगरतः महाबलिपुरं द्विचक्रिकया गतवन्तः । अन्तिमे वर्षे चेन्नैनगरतः वेदन्ताङ्गळ् पक्षिधामं द्विचक्रिकया गतवन्तः । अन्येऽपि बहूनि मित्राणि आसन् । यदा अहम् अन्तिमवारं सर्वाः पेटिकाः स्वीकृत्य बेङ्गलूरुनगरं प्रति गमनाय सन्नद्धः अभवम् तत्र ये मित्राणि आसन् तांश्च IIT च त्यक्त्वा गन्तुं न इष्टवानहम् । मम अश्रूणि अद्रावयन्नेव ।
परन्तु कालः गच्छति । इदानीं तु तेषु बहूनां सम्पर्कः एव विरलः । यदा कदापि chat मध्ये मिलामः वा ई-पत्रेण द्वित्राणि वाक्यानि विनिमयामः । केचन तु इदानीं स्मृतिपटले न सन्ति एव ।
अहं चिन्तितवान् प्रकृत्या दत्तः एषः वरः वा शापः वा इति । प्रायः शापात् वरः एव इति मम अभिप्रायः । अन्यथा जीवनं बहुदुष्करम् । काश्चन घटनाः यदि वयं विस्मर्तुं न शक्नुमः जीवनं तु असाध्यमिव भवति । अतः वरः एव इति चिन्तयामि ।
सा रम्या नगरी महान्स नृपतिः सामन्तचक्रं च तत् ।
पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः ।
उद्वृत्तः स च राजपुत्रनिवहस्ते बन्दिनस्ताः कथाः ।
सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ ४१ ॥
- भर्तृहरेः वैराग्यशतकम् ।
(P.S. एतस्मिन् श्लोके केषाञ्चन पदानां अर्थान् न सम्यक् जानाम्यहम् । यदि कोऽपि जानाति चेत् कृपया comments विभागे लिखतु।
)
11.19.06
गद्यं वा पद्यं वा?
पुरातनकाले संस्कृतभाषया जनाः पद्यकाव्यानि लिखन्ति स्म । बहूनि महाकाव्यानि लिखितानि सन्ति । परन्तु तावन्तः गद्यानि न सन्ति । यदि इतिहासं परिशीलयामः तर्हि पश्यामः यत् रामायणादि बहूनि महाकाव्यानि सन्ति परन्तु गद्यकाव्यानि विरलानि। लोकोक्तिः अपि आसीत् – “गद्यं हि कवीनां मानदण्डः” इति ।
परन्तु अहं चिन्तयामि पद्यकाव्यलेखनम् एव कठिणतरः खलु । यदि छन्दानुसृत्य लिखामश्चेत् ततोऽपि दुष्करः एव इति मम चिन्तनम् । अहं प्रयत्नां करोमि चेत् passable गद्यं लेखितुं शक्नोमि प्रायः । परन्तु पद्यं लेखितुं न शक्नोमि । प्रायः जनप्रवृत्ति: भिन्ना वर्तते । चिन्तितवानहं मया अपि न्यूनातिन्यूनम् एकः श्लोकः लेखनीयः इति । अतः अहं प्रयत्नां कृतवान् । प्रथमतया कस्मिन् विषये लिखामि इति चिन्तितवान् । निश्चितवान् अहं मङ्गलश्लोकरूपेण स्तोत्रं लिखामि इति । अतः उडुपिकृष्णम् स्तोतुम् एतं श्लोकं लिखितवानहम् अनुष्टुप्छन्दसि ।
वेणुनादप्रियं कृष्णं रजतपुरवासिनम् ।
मध्वाचार्यनुतं वन्दे वादिराजेन पूजितम् ॥
तदनन्तरं मया ज्ञातम् अस्माकं forum मध्ये एतत् पद्यमस्ति इति चातुर्मास्यकथा।
अतः दृश्यते जनाः सन्ति ये छन्दसि लेखितुं शक्नुवन्ति ।
मम सामर्थ्यं तु तावत् नास्ति एव
। परन्तु एकः प्रयत्नः आरम्भः कृतः इति समाधानमस्ति ।
11.09.06
व्यर्थव्ययः ।
मम चिन्तनम् आसीत् एतं विषयम् अधिकृत्य लेखितुम् । संयोगात् अद्य beetle bailey cartoon मध्ये तद्विवषयः एव आगत: । अस्मिन् देशे तु किञ्चित् अधिक्म् एव अनावश्यकव्ययः भावतीति ममाभिप्रायः । मया बहुवारं मित्रेभ्यो उक्तं च मित्राणां पीडा कृता च । सूक्ष्मविषयेषु एव यदि अस्माभिः सर्वैः किञ्चित् प्रयासः क्रीयते चेत्तदेव मिलित्वा बृहत्सागर इव भविष्यति । उदाहरणार्थं – paper napkins | अहं मध्याह्नभोजनार्थं उपाहारगृहं गच्छामि । तत्र भोजनानन्तरं हस्तप्रक्षालनार्थं paper napkins दास्यन्ति । जनाः दश napkins गृह्णन्ति । तेषु द्वित्राणाम् उपयोगं कुर्वन्ति । अन्यान् विना उपयोगं कृते एव क्षिपन्ति । यदि अस्मासु एकैकः प्रतिदिनं 1 napkin एव व्यर्थः न करिष्यति, चिन्तयन्तु आहत्य अमेरिकादेशे कति napkins व्यर्थाः न भवन्ति । तेन कतिपय वृक्षाः रक्षिताः भवेयु: ।
खाद्यपदार्थानां विषये तु इतोऽपि अधिका जागरूकता आवश्यकी । भारते एव लक्षाधिकजनाः दिनस्य एकं भोजनं सम्यग्रीत्या कर्तुं न शक्नुवन्ति । आफ्रीकीदेशेषु कोट्याधक शिशवः undernourishment कारणात् मरन्ति। अन्येषु देशेष्वपि जनाः शिशवश्च विना आहारं पीडाम् अनुभवन्तः सन्ति । भोजनं तु लक्ष्मी इव | तस्य व्ययीकरणं तु लक्ष्म्याः अनादर इव । यदि एतदङ्गीकर्तुं सिद्धाः न सन्ति चेदपि तान् बालान् जनान् च दृष्ट्वा तु किञ्चित् अस्माभिः चिन्तनं करणीयम् एव । अस्मासु बहवः धनं दत्वा साहाय्यं कर्तुं न सिद्धा एव (मम पूर्वलेखनं पश्यतु) । परन्तु यदि अस्माभिः व्यर्थव्ययः न क्रीयते तेन एव किञ्चित् कार्यं कृतम् इव इति मम चिन्तनम् ।
जानाम्यहम् अत्र वक्तुं शक्यते यत् तेन तु प्रायः अधिकः लाभः नास्तीति । परन्तु ममाभिप्रायः अस्ति मया तु किमपि व्यर्थं न कृतम् इति समाधानां तु भवति एव ।
जानामि च यत् मया मम मित्राणि बहुवारं पीडितानि च इति । ते उक्तवन्तश्च एतैः विषयैः मया तेषाम् आनन्दः भग्नः कृतः इत्यपि । कृपया क्षम्यताम् । मम आशा तु सा न आसीत् एव ।
11.01.06
भगवता पाठितः पाठ: ।
boston नगरे सद्यः एव संस्कृतभारत्याः वार्षिकमेलनं प्राचलत् । तत्र बहवः विचाराः चर्चिताः । एकस्मिन् सत्रे Pride of India पुस्तकविक्रयणविषये चर्चा अभवत् । पुस्तकस्य मूल्यं तु 50$ अस्ति । मम अभिप्रायः आसीत् यदि paperback edition भविष्यति पुस्तकस्य, मूल्यं किञ्चित् न्यूनं भवेत्, अधिकाः जनाः क्रीणीयुः इति । तदेव मया प्रकटित: अपि । अनन्तरं g-महोदयः माम् उक्तवान् ये क्रॆतुमिच्छन्ति ते 50$ दत्वा अपि क्रीणन्ति, ये न क्रेतुम् इच्छन्ति, यदि पुस्तकस्य मूल्यं 25$ भवति चेदपि न क्रीणन्ति, केचन ipod कृते 150$ दातुं सिद्धाः परन्तु पुस्तकार्थं 50$ न ददति | ते न केवलं पुस्तकं क्रीणन्ति संसथायाः साहाय्यं अपि कुर्वन्ति इति न चिन्तयन्ति।
अनन्तरं रात्रौ अहं बोस्टन्तः विमानेन प्रस्थानं कृतवान् । प्रकृतिविकोपकारणात् विमानयानं तु विलम्बेन आगतम् । अहं 12:15am BWI विमानस्थानकं प्राप्तवान् । केचन मित्रेभ्यो दूरवाणीं कृतवान् । परन्तु रात्रिसमयः । अपि च तद्दिने एव समयपरिवर्तनम् अभवत् (EDT to EST)| प्रायः सर्वे निद्रन्तः आसन् । मया अपि सङ्कोच: अनुभवितः । पूर्वतन समयानुसारात्तु 1:15am इव । किमर्थमहं मित्राणां निद्राभङगं कुर्याम्? इति । अतः cab स्वीकृत्य गृहमागतवानहम् । cab fare तु 50$ आसीत्
। तदा चिन्तितवानहं – भगवता सम्यक् पाठः पाठितः । cab fare कृते 50$ दातुं सिद्धोऽस्मि परन्तु पुस्तकार्थं तन्मूल्यमधिकम् इति चिन्तितं मया ।
विचार: आगतः मनसि यत् मम आद्यताः काः ? अन्ते धनसम्पादनं किमर्थम्? केषां पदार्थानां कृते अहं धनव्ययं कर्तुं सिद्धोऽस्मि ? चिन्तयन् अस्मि ।
10.30.06
नमांसि!
सर्वेभ्यो नमः |
बहुषु अवसरेषु बहवः जनाः भवान् blog आरम्भं करोतु इति आग्रहीतवन्तः । एतावत् पर्यन्तम् मया तस्य आवश्यकता एव न सम्यगवगता । परन्तु संस्कृतभारत्याः वार्षिकमेलनानन्तरम् मया चिन्तितं यत् मया किञ्चित् संस्कृताभ्यासः करणीयः इति । अतः अहं चिन्तितवान् संस्कृतेन blog लिखामि इति। येन प्रकारेण मम संस्कृताभ्यासः अपि भविष्यति, अपि च ये जनाः माम् blog करोतु इति आग्रहीतवन्तः ते अपि सन्तुष्टाः भवेयु: । परन्तु अत्र अहं प्रमुखतया संस्कृतेन लिखामि । यदि समयावकाशः लभ्यते तर्हि आङ्ग्लभाषया अपि लिखामि ।
प्रथमलेखनं तु किमर्थं blog नाम एवम् अस्ति इति विवृणाति इति सम्प्रदायः अस्ति । अहमपि तत्सम्प्रदायानुसारेण अत्र विवृणामि यत् मया किमर्थं एतन्नाम चितम् इति।
प्रथमतया तु इदानीम् अहं चिन्तयन् अस्मि – जीवने मम उद्देशः कः ? अहं तु PhD कुर्वन् अस्मि एव परन्तु तदनन्तरं मया किं करणीयम् ? दशवर्षानन्तरम् अहं कः स्याम् ? इति । यद्यहम् एतेषां प्रश्नानाम् उत्तरं ज्ञातुं वा दातुं वा इच्छामि चेत् प्रथमतया तु मया ज्ञातवयं यत् कोऽहम् इति । अतः एव अत्र प्रयासः क्रीयते तत्प्रश्नस्य उत्तरम् अन्वेषयितुम् ।
अपि च *nix systems (unix/linux) मध्ये “whoami” इति command अस्ति । अतः एतेन नाम्ना *nix systems कृते मम प्रीतिः अपि व्यक्तः भवति ।
अत्र प्रायः बहवः दोषाः स्युः । ते विद्वद्भिः क्षम्यताम् इति सविनयं प्रार्थना । यदि मां सूचयन्ति च तेन मम भाषाज्ञानं वर्धेत । अतः कृपया दोषान् comments विभागे लिखतु ।
——————–
hello all,
I have finally decided to start blogging!!! But the only difference is that the blog will be mainly in sanskrit – so that I can practice the language. If I have time on my hands, I will translate into English also. I invite people really interested in reading my writing (sic!) to learn the beautiful language of Sanskrit.
In keeping with tradition, I will explain the title of the blog in the first post. The name “ko&ham” means who am I? I am planning to document my thoughts on life and day to day occurences here so that by reading and analysing them, I may better understand myself. Hence the name. Also, on unix/linux systems, “whoami” is a command. Thus, the name also embodies my love for *nix systems.
Henceforth, I might not be able to translate into English. Once again, let me invite everyone who visits this blog to learn and be mesmerized by sanskrit
धन्यवादा:
__________
जयतु संस्कृतम् । जयतु मनुकुलम् ।


