02.27.08
स्वर्गे पञ्चजनान् मेलिष्यामः
गतसप्ताहे मया Mitch Albom नामकस्य लेखकस्य The 5 people you meet in heaven नाम किञ्चन पुस्तकं पठितम् । तस्मिन् पुस्तके लेखकः भावं प्रकटयति यत् मरणानन्तरं वयं पञ्चजनान् मिलामः ये अस्माकं जीवनस्य कासाञ्चन घटनानाम् अर्थं बोधयन्ति । एतत् किमर्थम् ? कदाचित् वयं न अवगच्छेम यत् किमर्थम् इयं घटना प्रवृत्ता ? किमर्थं मया सह भगवता / केनापि एवं व्यवहृतम् ? इति । लेखकेन रचितायां कथायां मरणसमनन्तरं पञ्चजनाः जीवनस्य प्रमुखानां घटनानां विवरणानि ददति । अनेन एव काचित् मनःशान्तिः प्राप्यते । अयं हि स्वर्गः इति भावः लेखकस्य ।
पुस्तकस्य नायकः एकस्मिन् मनोरञ्जनादायि-उद्याने (theme park) कार्यं करोति । सः पूर्वं युद्धे आघातितः सन् पादाभ्यां सम्यक् चलितुं न शक्नोति । तस्य पिता तस्मिन्नेव संस्थायां कार्यं करोति स्म । नायकः तत्र कार्यं कर्तुं न इच्छति स्म । परन्तु कारणान्तरात् तेन तत्रैव कार्यं करणीयं भवति । एकस्मिन् दिने एकं यन्त्रं सम्यक् कार्यं न करोति । तदा घटितायां दुर्घटनायाम् एकां बालिकां रक्ष्यमाणः नायकः मृतो भवति । तेन न ज्ञायतेऽपि यत् सा जीविता उत सा अपि मृता इति । कथं स्वजीवनस्य वृत्तान्तं श्रुत्वा सः समाधानम् आप्नोति इति कथा ।
लेखकः उपोद्घाते कथयति – “एतत् पुस्त्कं तेभ्यः अर्पितं ये जीवने न अवगतवन्तः जनाः तान् कियत् इच्छन्ति, तेषु आदरवन्तः सन्ति इति । प्रायः मरणानन्तरं तु अवगच्छेयुः ।”
कथा मनोहरा अस्ति । स्वर्गविषये लेखकस्य कश्चित् भिन्नः अभिप्रायः अपि चिन्ताजनकः किञ्चित् आशाप्रदः अपि
। पुस्तकपठने आसक्तवद्भिः इदं पुस्तकं पठनीयम् एव ।
ajikumarpv said,
August 12, 2008 at 1:55 am
good to see sanskrit- our language on blog.best regards.please give meadvice regarding writing sanskrit on blog
शीधकः said,
January 12, 2009 at 12:28 pm
गीर्वाण्यां अन्तर्जालपृष्ठपरिवीक्षणं अत्याह्लाददायिकम् । भवत्साधना अभिनन्दनार्हैव । अविरतं भवतु सुरसरस्वतीसॆवा ।
Praveen Chaturvedi said,
July 10, 2009 at 1:07 pm
Cool man. Can you tell how can i write in Sanskrit.Is there a software. how are you able to do this.