फ़रवरी 25, 2008
पुनरुज्जीवनम्?
दीर्घसमयात् अत्र किमपि न लिखितं मया । यद्यपि बहून् व्याजान् दातुं शक्नोमि , उत्साहो नासीदित्येव कारणम् इति अङ्गीक्रियते मया । इतः परं तु श्रद्धया यत्किञ्चित् लेखनीयम् इति निर्धारः ।
एतस्मिन् समये किं किं प्रवृत्तम् ? PhD संशोधनकार्ये किञ्चित् क्लेशः अनुभूतः, पाठाः पठिताः, क्वचित् संस्कृतं पाठितम् अपि, समयः यापितः । सुखकर्यौ प्रमुखे घटने तु मम भारतप्रवासः , गते सप्ताहे प्रचलिता कक्ष्या च । भारते गृहे उषित्वा बहूनि विविधानि प्रियाणि मधुराणि खादितानि
। निद्रा च कृता । बान्धवा अपि मेलिताः । कर्णाटके हासननगरे हासननगरस्य प्रथमं संस्कृतसम्मेलनं प्रवृत्तम् । तत्र अहं अगच्छम् । हासननगरे एव मया प्रथमतया संस्कृताध्ययनं कृतम् । संस्कृतपाठशालायाः अध्यापक्यः मेलिताः । मां दृष्ट्वा ताः अपि सन्तुष्टाः । सम्मेलनमपि ज्ञानप्रदम् आसीत् ।
गते सप्ताहे संस्कृतसाप्ताहान्तकक्ष्या चालिता । तत्र जनानाम् उत्साहः मयि अपि किञ्चित् उत्साहं अजनयत् । इदानीं मम स्नेहिताभ्यां सह सम्मिल्य किञ्चित् अध्ययनं करोमि प्रतिसप्ताहम् । तथा हि श्रीनिवासन्-महोदयः यः लघुसिद्धान्तकौमुदीं पाठयति, तस्य कक्ष्यायां भागं वोढुम् अनुमतिं दत्तवानस्ति । मया अद्य किञ्चित् लघुसिद्धान्तकौमुद्याः आध्ययनं कृतम् । इतः परं नियमितरूपेण अध्ययनं करणीयम् ।
अवशिष्टमस्ति PhD संशोधनम् । तत्रपि किञ्चित् प्रगतिः अस्ति । प्रार्थये शीघ्रमेव अधिका प्रगातिर्भवतु इति ।
Preeti said,
जुलाई 31, 2009 at 1:57 पूर्वाह्न
Hello..
This is Preeti from The Times of India.. I m doing a story on Sanskrit bloggers.. i need some inputs,.. How can I contact u?
preetpatil@gmail.com