02.25.08
परहस्तगतं धनं…प्रत्यागतम् !!
अद्य कश्चन अद्भुतः प्रवृत्तः इव। अहं भोजनार्थं अन्यत्र गच्छन् आसम् । तस्मिन् एव प्रासादे (building?) वित्तकोषस्य वित्तवितरणयन्त्रम् (ATM) अपि अस्ति । मया किञ्चित् धनं तत्र स्थापनीयम् आसीत् । तदर्थं एकस्मिन् निवेष्टे (envelope) धनं स्थापयित्वा मम नाम कार्यालयस्य दूरवाणीसङ्ख्या च अलिखम् । तन्नन्तरं तत्र अगमम् ।
भोजनालयं गत्वा भोजनं हस्तयोः स्वीकर्तुं तत् निवेष्टम् प्रावारकस्य कोषे स्थापितम् । भोजनं स्वीकृत्य धनं दत्त्वा उपवेष्टुम् अन्यत्र गतम् । उपवेशनसमये लक्षितं यत् तत् निवेष्टं नासीत् प्रावारकस्य कोषे । हृदयं स्थगितम् इव अभवत् । पुनःपुनः तस्य अन्वषणं कृतं परन्तु न प्राप्तम् । निराशाभावेन भोजनं समाप्य कार्यालयं प्रति अगमम् । मनसि आशाभावः उत्पन्नः यत् कोऽपि निवेष्टं दृष्ट्वा तस्योपरि लिखितां सङ्ख्यां प्रति सम्पर्कं कुर्यात् इति । कार्यालये प्राप्ते कोऽपि दूरभाषणेन सन्देशं स्थापितवान् अस्ति इति दृष्ट्वा रोमाञ्चितः । सन्देशः इत्थम् आसीत् – “मम नाम ___ । मया भवतः निवेष्टं प्राप्तम् । तदहं प्रासादस्य स्वागतकार्यालयाय (reception desk) दत्तवानस्मि” इति । एतच्छ्रुत्वा आनन्दितोऽहं तत्र गत्वा निवेष्टं स्वीकृत्य वित्तकोषस्य यन्त्रे स्थापितवान् । तन्नन्तरं तस्य महाशयस्य सम्पर्कं कृत्वा धन्यवादान् समर्पितवान् ।
परहस्तगतं धनं न पुनरायाति इति प्रतीतिः । परन्तु दैवानुग्रहे सति पुनरायाति इति भाति
Himanshu Pota said,
May 1, 2008 at 1:02 am
प्रावारक इति किम्?
हिमांशुः|
koham said,
May 3, 2008 at 7:04 am
प्रावरक इत्युक्ते coat jacket इत्यादि ।