08.03.07
हन्त ! कलियुगे कीदृशी स्थितिः
ಸತ್ಯವಂತರಿಗಿದು ಕಾಲವಲ್ಲ इति वदति पुरन्दरदासः । कलियुगोऽयं न प्रशस्तः कालः सत्यवादिनाम् । अस्मिन् कलियुगे धूर्तानामेव वर्धनं भवति।
अधुना स्थितिरेषा एव इति भासते । ये साधुस्वभावाः, न केवलं स्वकार्यं श्रद्धया कुर्वन्ति अन्येषां साहाय्यमपि कुर्वन्ति तेषां न आदरः । कृतज्ञाः विरलाः, कृतघ्नास्तु सर्वत्र । “मम कर्तव्यम् न करोमि चेत् अन्यः तत्कार्यं करोति इति यदि जानामि तर्हि अहं न करोमि मम कार्यं” इत्येव अस्ति ध्येयः । श्रद्धावतः शोषणं एव भवति ।
हन्त! इहलोके तु न दृष्यते परिहारः । परोलके भवति वा इति को वा जानाति ?
पंक्ज said,
August 7, 2007 at 6:42 pm
Please write more often… आप का बलौग बहुत मदद कर रहा है मुझे संस्कृत सीखने में । भगवान राम की कथा (हनुमान और अर्जुन का संवाद) अत्यन्त सुन्दर था ।
koham said,
August 7, 2007 at 10:46 pm
धन्यवादाः महोदय । आशा तु अस्ति एव यत् अहं प्रति दिनं किमपि लिखामि इति । प्रयत्नं तु करोमि एव।
Srinivasa said,
September 4, 2007 at 3:28 pm
ಸತ್ಯವಂತರಿಗಿದು ಕಾಲವಲ್ಲ – सत्यवन्तरिगिदु कालवल्ल इति किमर्थः? सत्यवन्तरिगु इदु काल अल्ल इति? अर्थात् कालोऽयम् सत्यवादिनाम् नास्ति इति?
koham said,
September 5, 2007 at 12:19 pm
सत्यम् ! कालेऽस्मिन् लोकेऽस्मिन् केवलम् असत्यवादिनः दुर्बुद्धिनः वञ्चका एव सुखम् अनुभूयन्ते । सत्यवादिनां सद्गुणसम्पन्नानाम् अनादरः एव वर्तते । ते केवलं कष्टम् अनुभूयन्ते इति भावः पुरन्दरदासस्यापि इति मन्ये ।